Stories
बुद्धिमान् शिष्यः
काशीनगरे एकः पण्डितः वसति । पण्डितसमीपम् एकः शिष्यः आगच्छति । शिष्यः वदति - ‘‘आचार्य ! विद्याभ्यासार्थम् अहम् आगतः ।’
पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति - ‘वत्स ! देवः कुत्र अस्ति?’
शिष्यः वदति - ‘ गुरो । देवः कुत्र नास्ति ? कृपया भवान् एव समाधानं वदतु । ‘’
सन्तुष्टः गुरुः बदति - “ देवः सर्वत्र अस्ति । देवः सर्वव्यापी । त्वं बुद्धिमान् । अतः विद्याभ्यासार्थम् अत्रैव वस ।
चतुरः काकः
एकः काकः अस्ति । सः बहु तृषितः । सः जलार्थं भ्रमति । तदा ग्रीष्मकालः । कुत्रापि जलं नास्ति । काकः कष्टेन बहुदूरं गच्छति । तत्र सः एकं घटं पश्यति । काकस्य अतीव सन्तोषः भवति । किन्तु घटे स्वल्पम् एव जलम् अस्ति । ‘जलं कथं पिबामि ?’ इति काकः चिन्तयति । सः एकम् उपायं करोति । शिलाखण्डान् आनयति । घटे पूरयति । जलम् उपरि आगच्छति । काकः सन्तोषेण जलं पिबति । ततः गच्छति !
मूढः जम्बूकः
एकः जम्बूकः अस्ति । सः एकदा आहारार्थं वने भ्रमति । एकत्र सः द्राक्षालतां पश्यति । लतायाम् अनेकानि द्राक्षाफलानि सन्ति । तानि पक्कानि ।
जम्बूकः चिन्तयति - ‘अद्य मम द्राक्षाफलानां भोजनम्’ इति । द्राक्षां लब्धुम् उपरि उत्पतति । किन्तु द्राक्षाफलानि न प्राप्नोति । जम्बूकः पुनः पुनः उत्पतति । तथापि फलानि न प्राप्नोति ।
जम्बूकः कुपितः भवति । सः तानि द्राक्षाफलानि दूषयति । द्राक्षाफलानि आम्लानि’ इति वदति । अनन्तरं स्वस्थानं गच्छति ।
कुशलः वृद्धः
एकः वृद्धः आसीत् । सः क्षुधितः अभवत् । समीपे एकः आम्रवृक्षः आसीत् । वृद्धः आम्रवृक्षस्य समीपम् अगच्छत् । वृक्षे बहूनि फलानि अपश्यत् । सः अचिन्तयत् - ‘अहं वृद्धः । मम शरीरे शक्तिः नास्ति । वृक्षः उन्नतः अस्ति । कथम् उपरि गच्छामि ? कथं फलं प्राप्नोमि ? इति । वृक्षस्य उपरि वानराः आसन् । वृद्धः एकम् उपायम् अकरोत् । सः पाषाणखण्डान् स्वीकृत्य अक्षिपत् । वानराः कुपिताः अभवन् । ते फलानि अक्षिपन् । वृद्धः तानि फलानि स्वीकृत्य सन्तोषेण अखादत् ।
विद्यायाः महत्त्वम्
एकं नगरम् आसीत् । तत्र रामः सोमः इति मित्रद्वयम् आसीत् । रामः विद्याम् इच्छति । सोमः धनम् इच्छति । एकदा मित्रद्वयं विदेशम् अगच्छत् । रामः तत्र विद्याभ्यासम् अकरोत् । सोमः धनसम्पादनम् अकरोत् । अनेकानि वर्षाणि अगच्छन् । मित्रद्वयम् अपि स्वनगरम् आगच्छत् । मार्गे चोराः आगच्छन् । सोमस्य धनम् अहरन् । अनन्तरं मित्रद्वयं नगरम् आगच्छत् । नगरे महाराजः आसीत् । सः मित्रद्वयम् अपश्यत् । अनन्तरं विद्यावन्तं रामम् आह्वयत् । “त्वं मन्त्रिस्थाने तिष्ठ” इति अवदत् । रामः मन्त्री अभवत् । सोमः विद्याविहीनः । सः जीवनार्थं रामस्य सेवकः अभवत् ।
दैवमेव परम्
एकः अहितुण्डिकः आसीत् । सः सर्पान् गृहीत्वा जीवनं करोति स्म । एकदा सः एकं सर्पम् आनयति । सर्पं पेटिकायां स्थापयति च । प्रतिदिनं सर्पस्य प्रदर्शनं करोति । जीवनं करोति ।
कदाचित् अहितुण्डिकः अन्यं ग्रामम् अगच्छत् । तस्य पत्नी पुत्राः अपि अगच्छन् । सर्पः पेटिकायाम् एव बद्धः आसीत् । पञ्च दिनानि अभवन् । अहितुण्डिकः न आगच्छत् । सर्पस्य आहारः एव नास्ति । सः पेटिकातः बहिः गमनाय प्रयत्नम् अकरोत् । सः बुभुक्षितः आसीत् । अतः शक्तिः नास्ति । विफलः अभवत् ।
तदा पेटिकासमीपे एकः मूषकः आगच्छत् । सः पेटिकाम् अपश्यत् । ‘पेटिकायां भक्ष्याणि सन्ति’ इति मूषकः अचिन्तयत् । रन्ध्रं करोमि’ इति सः निश्चयम् अकरोत् । अनन्तरं सः रन्ध्रं कृत्वा अन्तः प्रवेशम् अकरोत् । मूषकः सर्पस्य मुखे एव अपतत् । सर्पः मूषकम् अखादत् । तेन रन्ध्रेण एव बहिः अगच्छत् ।
अहो ! सर्पस्य सौभाग्यम् । मूषकस्य दौर्भाग्यम् ।
न्यायश्रद्धा
पूर्वं सगरः नाम नृपः आसीत् । तस्य पलीद्वयम् आसीत् । किन्तु एकः अपि पुत्रः न आसीत् । अतः सगरः दुःखितः अभवत् । अनन्तरं सः एकं मुनिवरं सेवितवान् । मुनिवरः सन्तुष्टः अभवत् । सः वरम् अयच्छत् । सगरस्य ज्येष्ठपत्नी एकं पुत्रम् अलभत । तस्य नाम असमञ्जः । कनिष्ठपत्नी षष्टिसहस्रं पुत्रान् अलभत्। कालः अतीतः । सर्वे पुत्राः अवर्धन्त ।
राजकुमारः असमञ्जः बहु दुष्टः आसौत् । सः विनोदार्थं नगरस्य अन्यान् बालान् जले क्षिपति स्म । म्रियमाणान् तान् दृष्ट्वा आनन्देन हसति स्म च । एवम् असमञ्जः अनेकान् बालान् अमारयत् ।
ततः जनाः दुःखिताः अभवन् । ते नृपस्य समीपम् आगच्छन् । असमञ्जस्य दुराचारम् अवदन् । तदा नृपः सचिवान् आह्वयत् । पुत्रस्य विषयम् अवदत् । “इदानीं किं करोमि?” इति तान् अपृच्छत् । सचिवाः अवदन् - “‘प्रजापीडकः असमञ्जः भवता राज्यतः निष्कासितः भवतु” इति । नृपः सचिवानां निर्णयम् अङ्गीकृतवान् । पुत्रम् अपि असमञ्जं सः निष्कासितवान् । अहो ! न्याये नृपस्य श्रद्धा !
अतः सञ्जनाः वदन्ति ‘त्यजेदेकं कुलस्यार्थे’ इति ।
साधूनां जीवनम्
गड्मातीरे एकः साधुः आसौत् । सः साधुः बहु उपकारं करोति स्म । यः अपकारं करोति तस्यापि उपकारं करोति स्म । एकस्मिन् दिने सः गङ्गानद्यां स्नानं कर्तुं नदीं गतवान् । नदीप्रवाहे एकः वृश्चिकः आगतः । सः साधुः वृश्चिकं दृष्टवान् । तं हस्तेन गृहीतवान् । तीरे स्थापयितुं प्रयत्नं कृतवान् । किन्तु सः साधोः हस्तम् अदशत् । साधुः तं त्यक्तवान् । वृश्चिकः जले अपतत् । पुनः साधुः वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान् । पुनः वृश्चिकः हस्तम् अदशत् । एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान् । वृश्चिकः अपि अदशत् ।
नदीतीरे एकः पुरुषः आसीत् । ‘‘साधुमहाराज । अयं वृश्चिकः दुष्टः । सः पुनः पुनः दशति । भवान् किमर्थं तं हस्ते वृथा स्थापयति ? वृश्चिकं त्यजतु’’ इति उक्तवान् सः । तदा साधुः उक्तवान् - “वृश्चिकः क्षुद्रः जन्तुः । दंशनं तस्य स्वभावः । सः स्वस्य स्वभावं न त्यजति । अहं तु मनुष्यः । अहं मम परोपकारस्वभावं कथं त्यजामि ?’’ इति ।
यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति ।
सहसा विदधीत न क्रियाम्
एकस्मिन् ग्रामे एका महिला वसति स्म । सा एकं नकुलं पालयति स्म । नकुलस्य विषये तस्याः बहुप्रीतिः आसीत् । महिलायाः एकः शिशुः अपि आसीत् । तस्याः गृहस्य समीपे जलं न आसीत् । जलम् आनेतुं सा दूरं गच्छति स्म ।
एकस्मिन् दिने जलम् आनेतुं सा अगच्छत् । गृहे कोऽपि न आसीत् । तस्याः शिशुः निद्रितः आसीत् । महिला बहिः गता । तदा एकः सर्पः गृहम् आगतः । नकुलः सर्पम् अपश्यत् । सर्पः शिशुसमीपम् अगच्छत् । नकुलः तत्क्षणे एव सर्पस्य उपरि अपतत् । क्षणमात्रेण एव सः सर्पम् अमारयत् । महिला जलं गृहीत्वा आगता । द्वारे एव नकुलः उपविष्टः । महिला नकुलस्य मुखम् अपश्यत् । नकुलस्य मुखं रक्तमयम् । सा अचिन्तयत् - `अयं नकुलः मम शिशुम् अखादत् । अतः एव अस्य मुखं रक्तम्’ इति । सा तत्क्षणे एव एकं शिलाखण्डं नकुलस्य उपरि अक्षिपत् । नकुलः मृतः । अनन्तरं सा गृहस्य अन्तः गता । तत्र शिशुः क्रीडति ! तत्रैव मृतं सर्पम् अपश्यत् । सा बहु दुःखिता अभवत् । अविचारेण मया नकुलः संहृतः इति सा पश्चात्तापेन पीडिता अभवत् ।
अतः किमपि कार्यं सहसा न कर्तव्यम् । विचारं कृत्वा एव कर्तव्यम् ।
वैराग्येण एव तृप्तिः
चन्द्रगुप्तः मगधदेशस्य नृपः । तस्य मन्त्री चाणक्यः । सः तपोधनः, राजतन्त्रज्ञः च आसीत् । मन्त्री अपि सः एकस्मिन् उटजे वसति स्म । वैराग्यभावनया सः पूर्णः आसीत् । एकदा नृपः चाणक्याय कम्बलान् समर्पितवान् । ‘एतान् कम्बलान् दरिद्रेभ्यः ददातु’ इति सः सूचितवान् ।
चाणक्यस्य उटजं नगरात् बहिः आसीत् । केचन चोराः कम्बलान् अपहर्तुं चिन्तितवन्तः । ते रात्रौ चाणक्यस्य उटजं प्राविशन् । मध्यरात्र-समयः । शीत-कालः । अतीव शैत्यम् आसीत् । तथापि चाणक्यः कटे सुप्तः आसीत् । तस्य पत्नी अपि कटे एव सुप्ता आसीत् । पार्श्वे कम्बलानां राशिः एव आसीत् । चोराणाम् आश्चर्यम् ! पार्श्वे कम्बलानां राशिरेव अस्ति । चाणक्यः कम्बलं विना निद्रां करोति !! चोराः चौर्यं न अकुर्वन् । ते चाणक्यं प्रबोधितवन्तः । चोराः - “चाणक्य ! पार्श्वे कम्बलानां राशिरेव अस्ति । तथाऽपि त्वं किमर्थं भूमौ शयनं करोषि ?” इत्यपृच्छन् । चाणक्यः उक्तवान् - “कम्बलाः नृपेण दत्ताः । ते दरिद्रेभ्यः दातव्याः । श्वः प्रभाते वितरणं करिष्यामि । तेषाम् उपयोगं कर्तुं मम नास्ति अधिकारः । किञ्च अहं विरक्तः, सदा तृप्तः” इति ।
इदं श्रुत्वा चोरेषु लज्जा उत्पन्ना । ‘अन्येषां द्रव्यस्य उपयोगेन अधर्मः भवति इति चाणक्यस्य विचारः अस्ति । वयं जीवने प्रतिदिनम् अन्यस्य द्रव्यमेव अपहरामः, अधर्मं कुर्मः, पापस्य सङ्ग्रहश्च भवति’ इति चिन्तयित्वा ते चाणक्यं क्षमां प्रार्थितवन्तः । ततः सज्जनाः अभवन् च ।