Stories
दिलीपस्य शापवृत्तान्तः
दिलीपः सूर्यवंशस्य नृपः । तस्य सुतः रघुः । रघुराजः प्रसिद्धः । अतः अयं वंशः ‘रघुवंशः’ इति ख्यातः । रघुवंशे वैवस्वतमनुः प्रथमः पुरुषः । दिलीपः प्रजावत्सलः आसीत् । सुदक्षिणा तस्य पत्नी । दिलीपः बहुकालं पुत्ररहितः आसीत् । अतः सः चिन्ताक्रान्तः अभवत् । वसिष्ठः दिलीपस्य आचार्यः । दिलीपः वसिष्ठं द्रष्टुं सङ्कल्पितवान् । अतः सः सचिवेषु
राज्यभारं निक्षिप्तवान् । सुदक्षिणासहितः वसिष्ठाश्रमं गतवान् । तत्र नृपः वसिष्ठाय स्वचिन्तां निवेदितवान् । ‘कुतः मम सन्ततिः नास्ति ?’ इति प्रश्नं कृतवान् । वसिष्ठः कारणम् अचिन्तयत् । आचार्यः अकथयत् - ‘नृप ! त्वं कदाचित् स्वर्ग गतवान् । तत्र त्वं देवेन्द्रं सेवितवान् । ततः त्वं प्रत्यागतवान् । तदा मार्गमध्ये कामधेनुः आसीत् । सा कल्पवृक्षस्य छायायाम् आसीत् । त्वं कामधेनुं न दृष्टवान् । न च नमस्कृतवान् । कामधेनुः कुपिता अभवत् । शापं दत्तवती । अतः तव सन्ततिः नास्ति । तस्याः सन्ततिं पूजय । तदा तव सन्तानः भविष्यति’ इति । दिलीपः पृष्टवान् - ‘शापवाक्यं मया न श्रुतम् । कुतः ?’ इति । आचार्यः अकथयत् - ‘गङ्गाप्रवाहः आसीत् । अतः तत् न श्रुतम्’ इति । नृपः अपृच्छत् - ‘इदानीं किं करोमि ?’ इति । वसिष्ठः अवदत् - ‘आश्रमे नन्दिनी अस्ति । सा कामधेनोः पुत्री । तां पूजय । वन्यजीवनम् आचर । अनुग्रहः भविष्यति’ इति । नृपः अङ्गीकृतवान् । सः पर्णशालायां वासम् अकरोत् । सुदक्षिणा अपि तत्रैव स्थिता । नृपः राजवैभवम् अत्यजत् । कुशानां शयने सुप्तः । प्रातःकाले धेनुं सुदक्षिणासहितः पूजितवान् । नन्दिनी वनम् अगच्छत् । नृपः ताम् अनुगतवान् । जागरूकः धेनुम् एकविंशतिदिनानि सेवितवान् ।।
सिंहदिलीपयोः संवादः
नन्दिनी अन्यस्मिन् दिने नृपस्य परीक्षां कृतवती । सा हिमालयस्य गुहां प्रविष्टवती । दिलीपः पर्वतस्य सौन्दर्यं पश्यन् आसीत् । तदा एकः सिंहः नन्दिनीं बलात्कारेण गृहीतवान् । तेन पीडिता धेनुः उच्चैः क्रन्दनं कृतवती । नृपः आक्रन्दनं श्रुतवान् । धेनुम् अपश्यत् । धेनुं सिंहः आकर्षति । दिलीपः कुपितः अभवत् । सिंहस्य वधं कर्तुं निश्चयं कृतवान् । निषङ्गात् बाणं स्वीकर्तुं करं स्थापितवान् । किन्तु करः तत्र एव स्थगितः अभवत् । नृपस्य अपमाननं सञ्जातम् । कोपः अपि अधिकः जातः । तदा नृपम् उद्दिश्य सिंहः - “भूपाल ! श्रमः मास्तु ! तव सर्वम् अस्त्रं, शस्त्रं च व्यर्थं भवति । अहं शिवस्य सेवकः । मम नामधेयं कुम्भोदरः इति । समीपे देवदारुवृक्षं पश्यसि खलु ? पार्वती प्रीतिपूर्वकं तं वृक्षं वर्धितवती । वृक्षस्य रक्षणार्थं पार्वती मां नियुक्तवती । अत्र आगतः प्राणी मम आहारः । अतः धेनुं न त्यजामि” इति अकथयत् । तत् वचनं श्रुत्वा नृपः - “अहम् अपि शिवपूजकः । शिवः गौरवार्हः । मम आचार्यः वसिष्ठः । तस्य धेनुः एव धनम् । अतः प्रार्थनां करोमि । मम
देहं खाद, धेनुं त्यज” इति अवदत् । सिंहः किश्चित् अहसत् । “त्वं जगत्प्रभुः । नूतनं वयः । सुन्दरं शरीरम् । इदं सर्वम् अल्पस्य कारणेन त्यजसि किम् ? त्वं विचारमूढः” इति अकथयत् ।
नन्दिन्याः वरप्रसादः
सिंहः पुनः अवदत् - “नृप ! तव भूतदया योग्या । किन्तु त्वं शरीरं त्यक्तुम् इच्छसि । तेन एका धेनुः रक्षिता भवति । यदि जीवसि, सर्वाः प्रजाः रक्षिताः भवन्ति । ‘आचार्यस्य एका एव धेनुः अस्ति । सा मृता भवति चेत् आचार्यः कुपितः भवति’ इति चिन्ता न कर्तव्या । आचार्याय कोटिशः धेनुदानं कुरु” इति । दिलीपः सिंहस्य वाक्यं श्रुत्वा - “यदि अहं धेनुरक्षणं न करोमि तर्हि मम जीवनम् एव व्यर्थम् । त्वम् अपि पराधीनः खलु ? त्वं वृक्षस्य रक्षणं करोषि । यदि वृक्षः नष्टः भवति तर्हि ईश्वरं कथं पश्यसि ? अतः अहं मम शरीरं ददामि । आचार्यस्य धेनुं त्यज’ इति अकथयत् । सिंहः नृपस्य प्रार्थनाम् अङ्गीकृतवान् । नृपः मुखम् अधोभागे अकरोत् । प्राणान् त्यक्तुं सिद्धः अभवत् । तत्क्षणे पुष्पवृष्टिः अभवत् । “वत्स, उत्तिष्ठ” इति ध्वनिः श्रुतः । दिलीपः अपश्यत् । सिंहः नास्ति ! केवलं नन्दिनी । नन्दिनी नृपं दृष्ट्वा - ‘मया परीक्षा कृता । सर्वं मम माया । तव सेवया अहं प्रसन्ना । वरं ददामि । पृच्छ’ इति अकथयत् । दिलीपः - ‘मम सन्तानः भवतु’ इति प्रार्थनां कृतवान् । नन्दिनी वरं दत्तवती । ‘मम क्षीरं पिब’ इति उक्तवती । नृपः क्षीरं पीतवान् । परस्मिन् दिने नृपः सुदक्षिणा च राजधानीम् आगतौ । कालः अतीतः । सुदक्षिणा गर्भवती अभवत् । शुभे मुहूर्ते पुत्रं प्रसूतवती । नृपः पुत्रस्य ‘रघुः’ इति नामधेयं कृतवान् ।
रघुदेवेन्द्रयोः युद्धम्
बालकः रघुः दिने दिने प्रवृद्धः । सः योग्यं शिक्षणम् अपि प्राप्तवान् । तस्य विवाहः अपि सम्पन्नः । दिलीपः राज्यभारं लघु कर्तुम् अपेक्षितवान् । अतः सः रघुकुमारस्य पट्टाभिषेकं कृतवान् । ततः शतम् अश्वमेधयागान् कर्तुं सङ्कल्पितवान् । शतेन अश्वमेधैः देवेन्द्रपदवी लभ्यते । दिलीपेन अश्वमेधयागाय यागाश्वाः प्रेषिताः । अश्वानां रक्षणाय रघुः गतः । एकोनशतं (९९) यागाः निर्विघ्नाः जाताः । अन्तिमस्य यागस्य अश्वः प्रेषितः । धनुर्धराः रक्षकाः आसन् । परन्तु देवेन्द्रः तत्र आगतः । सः गुप्तशरीरं धृतवान् । अश्वम् अपहृतवान् । रघुराजस्य सैन्यम् आश्चर्यचकितम् अभवत् । किं कर्तव्यम् इति न ज्ञातम् । तदा तत्र वसिष्ठस्य नन्दिनीधेनुः आगतवती । सा अनुग्रहं कृतवती । तेन पूर्वदिशायाम् इन्द्रः दृष्टः । रघुः इन्द्रम् उद्दिश्य अवदत् - “देवेन्द्र ! त्वं देवेषु प्रथमः । अश्वस्य अपहरणं हीनं कार्यम् । इदं त्वया न कर्तव्यम् । तव अपकीर्तिः भवति । अश्वं त्यज” इति । इन्द्रः रघुं दृष्ट्वा - “राजकुमार ! कीर्तिः एव मुख्या । अहम् एकः
‘शतक्रतुः’ इति प्रसिद्धः । अन्यः शतक्रतुः लोके नास्ति । यदि तव जनकः शतम् अश्वमेधान् करोति तर्हि सः शतक्रतुः भवति । अतः अहम् अश्वम् अपहृतवान्” इति अकथयत् । रघुः इदं वचनं श्रुत्वा - “यदि आग्रहः शस्त्रं गृह्यताम्” इति अवदत् । रघुदेवेन्द्रयोः भीकरं युद्धं जातम् । रघुः बाणं गृहीतवान् । क्षिप्तवान् च । इन्द्रस्य भुजे चिह्न जातम् । इन्द्रः कुपितवान् । वज्रायुधेन रघुं ताडितवान् । रघुः भूमौ पतितवान्, क्षणे एव उत्थितवान् च । रघुकुमारस्य पराक्रमेण इन्द्रः सन्तुष्टवान् । इन्द्रः - “वरं पृच्छ, अश्वं तु न ददामि” इति अकथयत् । रघुः - “अश्वं विना अपि यागः पूर्णः भवतु, यागफलं च भवतु” इति प्रार्थितवान् । इन्द्रः ‘तथास्तु’ इति वरं दत्तवान् । सन्तुष्टः रघुः राजधानीं प्रत्यागतवान् ।
रघुमहाराजस्य त्यागः
दिलीपः वृद्धः सञ्जातः । सः भार्यया सह वनम् अगच्छत् । वानप्रस्थाश्रमं स्वीकृतवान् । रघुः सिंहासनम् आरूढवान् । ततः सः दिग्विजयं कृतवान् । सर्वान् देशान् जितवान् । दिग्विजयानन्तरं रघुः ‘विश्वजिद्’यागं कृतवान् ।
तस्मिन् यागे सर्वस्वं दक्षिणा भवति । रघुमहाराजः सर्वस्य दानं कृतवान् । तस्य कोशः निःशेषः जातः । कौत्सः तपस्विकुमारः । सः वरतन्तुमुनेः शिष्यः । सः रघुमहाराजस्य समीपं गुरवे दानार्थं धनं प्रष्टुम् आगतवान् । रघुः मृत्तिकापात्रेण अर्घ्य दत्तवान् । तेन एव कौत्सः विषयं ज्ञातवान् । रघुः क्षेमं पृष्टवान् । आगमनकारणं च अपृच्छत् । कौत्सः अवदत् - ‘गुरुदक्षिणा मया दातव्या । त्वम् इदानीं निर्धनः । याचनं न युक्तम् । कालम् अतिक्रम्य अहम् आगतवान् । अन्यं पृच्छामि’ इति । रघुः - ‘गुरवे कियत् धनं दातव्यम्’ ? इति पृष्टवान् । कौत्सः स्वकथां कथितवान् - “मम अध्ययनं समाप्तम् । ततः अहं ‘गुरुदक्षिणा का’ इति गुरुं पृष्टवान् । गुरुः उक्तवान् - ‘दक्षिणा मास्तु । भक्त्या एव अहं सन्तुष्टः’ इति । अहम् अनुरोधं कृतवान् । गुरुः कुपितः । ‘चतुर्दशकोटिपरिमितं सुवर्णं दीयताम्’ इति उक्तवान् । अहं दरिद्रः । कथम् आनयामि ? अतः अत्र आगतवान् । त्वं निर्धनः, अन्यत्र गच्छामि’ इति । रघुराजः ‘अन्यत्र गमनं मास्तु । यदि अहं धनं न ददामि तर्हि मम अपवादः भविष्यति । अत्र एव वासं कुरु । कथञ्चित् धनं सम्पादयामि’ इति अकथयत् । अन्यस्मिन् दिने रघुः कुबेरात् धनं ग्रहीतुं प्रस्थितवान् । किन्तु तावता कोषे सुवर्णवृष्टिः अभवत् । रघुः सुवर्णं कौत्साय दत्तवान् । कौत्सस्य मनोरथः पूर्णः अभवत् ।
अजमहाराजः
कौत्सस्य आशीर्वादेन रघोः पुत्रः उत्पन्नः । सः एव अजः । अजः रूपेण गुणेन च रघुसदृशः । अजः प्रवृद्धः । सर्वाः विद्याः अधीतवान् । तरुणः विद्याविनयसम्पन्नः अभवत् । विदर्भदेशस्य नृपः भोजः । भोजस्य अनुजा इन्दुमती । तस्याः स्वयंवरकार्यक्रमः निश्चितः । भोजः रघुमहाराजाय आमन्त्रणं प्रेषितवान् । ततः अजः स्वयंवरार्थं विदर्भदेशं गतवान् । स्वयंवरार्थं मगधेश्वरः, अङ्गराजः, अवन्तिनाथः, कार्तवीर्यार्जुनः, अन्ये च नृपाः आगताः । किन्तु इन्दुमती सर्वगुणसम्पन्नम् अजमहाराजम् एव वृतवती । विवाहः सम्पूर्णः । अजः स्वनगरं प्रति प्रस्थितवान् । मध्ये अन्ये नृपाः अनेन सह युद्धं
कृतवन्तः । युद्धे नृपाः पराजिताः । अजः विजितवान् । सः अयोध्यां प्रत्यागतवान् । रघुः अजम् अभिनन्दितवान् । ततः रघुः अजं सिंहासने प्रतिष्ठापितवान् । अजः प्रजाः पुत्रान् इव अरक्षत् । ततः रघुः वानप्रस्थाश्रमं स्वीकृतवान् । योगमार्गेण भगवन्तं द्रष्टुं सङ्कल्पितवान् । कालः अतीतः । रघुः मोक्षं प्राप्तवान् । अजस्य इन्दुमत्याः च पुत्रः जातः । सः दशरथः । अजः कदाचित् इन्दुमत्या सह उद्यानं गतवान् । तदा एकः पुष्पहारः इन्दुमत्याः उपरि पतितः । तदा इन्दुमती मृता । तस्याः पुरा एकः शापः आसीत् । सा शापेन ग्रस्ता अप्सराः आसीत् । इदानीं शापात् मुक्ता । अत एव सा मृता । इन्दुमत्याः विरहेण अजः दुःखतप्तः जातः । आचार्यः वसिष्ठः समाधानवचनानि उक्तवान् । तथापि दुःखं न शान्तम् । अजः दुःखपीडितः एव राज्यं रक्षितवान् । अन्ते विरहदुःखेनैव गङ्गायाः सङ्गमे देहत्यागं कृतवान् । ततः दशरथः राजा अभवत् ।
दशरथस्य शापः
दशरथः सम्यक् राज्यं परिपालयति स्म । किन्तु बहुकालं सः पुत्ररहितः आसीत् । अतः तस्य चिन्ता आसीत् । देवेन्द्रः देवलोकस्य नृपः । तस्य राजधानी अमरावती । राक्षसाः देवानां वैरिणः । ते देवलोकस्य आक्रमणं कृतवन्तः । देवाः भीताः । देवेन्द्रः दशरथस्य साहाय्यं प्रार्थितवान् । दशरथः देवलोकं गत्वा असुरैः सह युद्धं कृतवान् । युद्धे राक्षसाः पराजिताः । देवानां सौख्यं जातम् । कालः अतीतः । एकदा वसन्तमासे दशरथः मृगयां कर्तुं वनं गतवान् । वने हिंस्त्राः प्राणिनः आसन् । नृपः अनेकान् प्राणिनः हतवान् । अन्ते दशरथः रात्रौ वने एव विश्रान्तिं स्वीकृतवान् । प्रातः दशरथः अश्वम् आरूढवान् । तमसानदीतीरं गतवान् । नदीतीरे तपस्विकुमारः आसीत् । सः कुम्भे जलं पूरयति स्म । नृपः दूरात् तं शब्दं श्रुतवान् । गजस्य शब्दः इति सः चिन्तितवान् । गजं हन्तुं बाणं विसृष्टवान् । बाणः तपस्विकुमारम् अताडयत् । कुमारः ‘हा ! तात !’ इति क्रन्दनं कृतवान् । नृपः तस्य समीपं गतवान् । बाणाहतं तं दृष्ट्वा नृपः अतीव दुःखितः । पतितं तपस्विकुमारम् आश्रमं नीतवान् । तत्र वृद्धौ दम्पती आस्ताम् । तपस्विकुमारः मृतः । मृतं पुत्रं दृष्ट्वा वृद्धः कुपितः । दशरथाय ‘पुत्रशोकात् तवापि मरणं भविष्यति’ इति शापं दत्तवान् । शापं श्रुत्वा
दशरथः दुःखितः अभवत् । ‘पुत्रः भविष्यति’ इति सन्तुष्टः अपि अभवत् । तथापि शापभारेण सह दशरथः राजधानीं प्रत्यागतवान् ।
रामायणम्
दशरथः अपुत्रः । शापः अनुग्रहः एव जातः तस्य । रावणः राक्षसराजः । स देवान् पीडयति स्म । देवाः विष्णुसमीपं गतवन्तः । विष्णुः कथितवान् - ‘रावणवधार्थं दशरथस्य पुत्रो भविष्यामि’ इति । ततः दशरथस्य रामः, लक्ष्मणः, भरतः, शत्रुघ्नः इति चत्वारः पुत्राः अभवन् । सर्वे सकलाः विद्याः अधीतवन्तः । रामलक्ष्मणौ यागरक्षणार्थं विश्वामित्रेण सह आश्रमं गतवन्तौ । यज्ञरक्षणानन्तरं रामः अहल्याम् उद्धृतवान् । ततः तौ विश्वामित्रेण सह मिथिलां प्राप्तवन्तौ । रामः जनकराजस्य सभायां शिवधनुषः भङ्गं कृतवान् । ततः रामस्य लक्ष्मणस्य भरतस्य शत्रुघ्नस्य च विवाहः जातः । सर्वे अयोध्यां प्रत्यागतवन्तः । मार्गे रामः परशुरामस्य गर्वभङ्गं कृतवान् । ततः रामस्य यौवराज्याभिषेकार्थं दशरथः सन्नाहं कृतवान् । किन्तु कैकेयीवचनात् रामः लक्ष्मणेन सीतया च सह अरण्यं गतवान् । दशरथस्य अवसानम् अभवत् । मातुलगृहात् आगतः भरतः श्रीरामसमीपं गत्वा पादुके आनीतवान् । ततः दण्डकारण्ये शूर्पणखाप्रसङ्गात् क्क्रुद्धः रावणः सीताम् अपहृतवान् । ततः किष्किन्धासमीपे रामसुग्रीवयोः सख्यम् अभवत् । रामः वालिनं संहृतवान् । आञ्जनेयः लङ्कायां सीतां दृष्ट्वा वृत्तान्तं निवेदितवान् । रामः समुद्रस्य सेतुं बद्ध्वा लङ्कां गतवान् । रावणस्य वधं च कृतवान् । ततः विमानेन श्रीरामः लक्ष्मणेन सीतया च सह अयोध्याम् आगतवान् । रामस्य पट्टाभिषेकः अभवत् । किन्तु सीतायाः विषये जनापवादं श्रुत्वा रामः सीतापरित्यागं कृतवान् । वाल्मीकेः आश्रमे सीता कुशलवौ प्रसूतवती । कुशलवौ वाल्मीकेः सकाशात् रामायणं पठितवन्तौ । श्रीरामः अश्वमेधयागं कृतवान् । तदा कुशलवौ रामायणं गीतवन्तौ । ततः रामः वाल्मीकिमुनेः आश्रमम् आगतवान् । वाल्मीकिमुनिः सीतां परिग्रहीतुं कथितवान् । श्रीरामः
- “पुनः सर्वेषां पुरतः ‘अहं शुद्धा’ इति सीता कथयतु” इति उक्तवान् । इदं श्रुत्वा सीता खिन्ना । तत्क्षणे भूमौ बिलं जातम् । सीता तत्र लीना । रामादयः सरयूनद्यां देहत्यागं कृतवन्तः । अनन्तरं कुशः नृपः अभवत् ।
कुशः कुमुद्वती च
नृपः कुशः कुशावतीनगरे वसति स्म । कदाचित् राजभवने कुशः रात्रौ शयने आसीत् । किन्तु प्रबुद्धः एव आसीत् । तदा अयोध्यायाः अधिदेवता तत्र आगच्छति । कुशम् उद्दिश्य वदति - ‘पुरा अयोध्यायां मार्गे नूपुराणां ध्वनिः श्रूयते स्म । इदानीं शृगालानाम् अमङ्गलरवः श्रूयते । गवाक्षाः कृमितन्तुजालैः आच्छादिताः । एवम् अयोध्यानगरी मरुभूमेः अवस्थाम्
प्राप्तवती । अतः पुनः आगत्य तत्रैव भवान् वसतु’ इति । ततः कुशः शिल्पिभिः अयोध्यां नवीकृत्य तत्रैव वासम् अकरोत् । कुशः कदाचित् सरयूनद्यां जलक्रीडां कृत्वा तटम् आगतवान् । तस्य हस्ते ‘जैत्राभरणं’ नाम वलयम् आसीत् । किन्तु तत् जले एव प्रभ्रष्टम् आसीत् । तत् आभरणं जनकेन रामेण दत्तम् आसीत् । आभरणस्य अन्वेषणार्थं कुशः बहु प्रयत्नं कृतवान् । किन्तु आभरणं न लब्धम् । ‘केनापि अपहृतम्’ इति मत्वा गरुडास्त्रं विमोक्तुं कुशः सन्नद्धः अभवत् । तदा नागलोकस्य राजा कुमुदः कुमुद्वत्या सह आगच्छति । कुशं प्रति - ‘राजन् ! इयं कुमुद्वती मम अनुजा । सा कन्दुकेन क्रीडन्ती आसीत् । तदा भवतः ‘जैत्राभरणम्’ आसादितवती । अतः इदं जैत्राभरणं कन्यारत्नं च स्वीकुरु’ इति कथितवान् । अनन्तरं कुशः कुमुद्वतीं परिणीतवान् । कुशस्य कुमुद्वत्याः च अतिथिः नाम पुत्रः जातः । अतिथिः सकलकलासु पारङ्गतः । कदाचित् कुशः युद्धे देवानां साहाय्यं कर्तुं देवलोकं गतवान् । तत्र दुर्जयनामकेन राक्षसेन सह युद्धम् अकरोत् । यद्यपि युद्धे दुर्जयः मृतः, किन्तु तस्मिन्नेव युद्धे कुशः अपि मृतः । पत्नी कुमुद्वती चितारोहणं कृतवती । ततः सर्वे अमात्याः मिलित्वा पुत्रस्य अतिथेः पट्टाभिषेकं कृतवन्तः ।
रघुवंशस्य अवनतिः
अमात्याः अतिथिमहाराजस्य पट्टाभिषेकं कृतवन्तः । अतिथिः उदारपुरुषः । सः पट्टाभिषेकसमये कारागृहे स्थितानां जनानां विमोचनं कृतवान् । पञ्जरे स्थितानां शुकानाम् अपि विमोचनं कृतवान् । तस्य परिजनेषु, प्रजासु, सचिवेषु च अतीव आदरः । विवादेषु स्वयम् एव धर्मासने उपविशति स्म । उचितं न्यायनिर्णयं प्रकटयति स्म । अनृतं तु स्वप्नेऽपि न उक्तवान् । योग्ये एव दानं कृतवान् । ‘शौर्यरहिता नीतिः प्रयोजनाय न भवति । नीतिरहितं शौर्यं पशुचेष्टावत् भवति।’ अतः अतिथिचक्रेश्वरः नीतिं शौर्यं च यथोचितम् अनुसृतवान् । सः प्रतिदिनं मन्त्रिभिः सह मन्त्रालोचनं करोति स्म । तथापि मन्त्रालोचनं गुप्तं भवति स्म । एवं साम-दान-भेद-दण्डैः अतिथिचक्रेश्वरः राज्यं परिपालितवान् । स्वर्गस्य देवेन्द्रः इव भूलोकस्य चक्रेश्वरः अभवत् ।
रघुवंशस्य नृपाः शैशवे विद्याम् अधीतवन्तः । यौवने सुखम् अनुभूतवन्तः । वृद्धावस्थायां वानप्रस्थाश्रमं स्वीकृतवन्तः । केचित् नृपाः योगेन शरीरपरित्यागमपि कृतवन्तः । इत्थं रघुवंशस्य नृपाः राज्यं, प्रजाः च योग्येन मार्गेण परिपालितवन्तः ।
अतिथिचक्रेश्वरात् विंशतितमः (२०) सुदर्शनो नृपः । सुदर्शनः स्वपुत्रम् अग्निवर्णम् अभिषिच्य तपः कर्तुं नैमिषारण्यं गतवान् ।
अग्निवर्णः रघुकुले निकृष्टः नृपः । तं द्रष्टुं यदा जनाः आगताः तदा सः बहिः पादद्वयं प्रदर्शितवान् । सदा कामासक्तः । अन्तःपुरे सर्वम् आयुः यापितवान् । ततः क्षयरोगेण पीडितः अभवत् । यौवने एव रोगात् मृतः । मरणसमये तस्य पत्नी गर्भिणी आसीत् । अतः सचिवाः गर्भस्थशिशोः एव अभिषेकं कृतवन्तः । ततः राज्ञी एव सचिवानां साहाय्येन प्रजापालनं कृतवती ।