Best of अभिज्ञानशाकुन्तलम्

नान्दि श्लोकः

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥

श्रग्धरा छन्दः

या सृ ष्टिः स्र ष्टु रा द्या व ह ति वि धि हु तं या ह वि र्या च हो त्री
मगण रगण भगण नगण यगण यगण यगण
गुरु गुरु गुरु गुरु लघु गुरु गुरु लघु लघु लघु लघु लघु लघु गुरु गुरु लघु गुरु गुरु लघु गुरु गुरु
ये द्वे का लं वि ध त्तः श्रु ति वि ष य गु णा या स्थि ता व्या प्य वि श्वम्
मगण रगण भगण नगण यगण यगण यगण
गुरु गुरु गुरु गुरु लघु गुरु गुरु लघु लघु लघु लघु लघु लघु गुरु गुरु लघु गुरु गुरु लघु गुरु गुरु
या मा हुः स र्व बी ज प्र कृ ति रि ति य या प्रा णि नः प्रा ण व न्तः
मगण रगण भगण नगण यगण यगण यगण
गुरु गुरु गुरु गुरु लघु गुरु गुरु लघु लघु लघु लघु लघु लघु गुरु गुरु लघु गुरु गुरु लघु गुरु गुरु
प्र त्य क्षा भिः प्र प न्न स्त नु भि र व तु व स्ता भि र ष्टा भि री शः
मगण रगण भगण नगण यगण यगण यगण
गुरु गुरु गुरु गुरु लघु गुरु गुरु लघु लघु लघु लघु लघु लघु गुरु गुरु लघु गुरु गुरु लघु गुरु गुरु

पदच्छेदः

या सृष्टिः स्रष्टुः आद्या वहति विधिहुतम् या हविः या च होत्री। ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्। याम् आहुः सर्वबीजप्रकृतिः इति यया प्राणिनः प्राणवन्तः। प्रत्यक्षाभिः प्रपन्नः तनुभिः अवतु वः ताभिः अष्टाभिः ईशः॥

श्लोकचतुष्टयस्य प्रथमः श्लोकः

यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥

शार्दूलविक्रीडितम् छन्दः

या स्य त्य द्य श कु न्त ले ति हृ द यं सं स्पृ ष्ट मु त्क ण्ठ या
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
क ण्ठः स्त म्भि त बा ष्प वृ त्ति क लु ष श्चि न्ता ज डं द र्श नम्
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
वै क्ल व्यं म म ता व दी दृ श मि दं स्ने हा द र ण्यौ क सः
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
पी ड्य न्ते गृ हि णः क थं नु त न या वि श्ले ष दुः खै र्न वैः
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु

पदच्छेदः

यास्यति अद्य शकुन्तला इति हृदयं संस्पृष्टम् उत्कण्ठया। कण्ठः स्तम्भितबाष्पवृत्तिकलुषः चिन्ताजडं दर्शनम्। वैक्लव्यं मम तावत् ईदृशम् इदं स्नेहात् अरण्यौकसः। पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैः नवैः॥

श्लोकचतुष्टयस्य द्वितीयः श्लोकः

पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥

शार्दूलविक्रीडितम् छन्दः

पा तुं न प्र थ मं व्य व स्य ति ज लं यु ष्मा स्व पी ते षु या
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
ना द त्ते प्रि य म ण्ड ना पि भ व तां स्ने हे न या प ल्ल वम्
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
आ द्ये वः कु सु म प्र सू ति स म ये य स्या भ व त्यु त्स वः
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु
से यं या ति श कु न्त ला प ति गृ हं स र्वै र नु ज्ञा य ताम्
मगण सगण जगण सगण तगण तगण
गुरु गुरु गुरु लघु लघु गुरु लघु गुरु लघु लघु लघु गुरु गुरु गुरु लघु गुरु गुरु लघु गुरु

पदच्छेदः

पातुं न प्रथमं व्यवस्यति जलं युष्मासु अपीतेषु या। न आदत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम्। आद्ये वः कुसुमप्रसूतिसमये यस्याः भवति उत्सवः। सा इयं याति शकुन्तला पतिगृहं सर्वैः अनुज्ञायताम्॥